सरलभाषा संस्कृतम्

sanskritvyakaran

शनिवार, 7 जनवरी 2017

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्।।1.2।।
*पदच्छेद:*-
सञ्जय: उवाच-दृष्ट्वा, तु ,पाण्डवानीकम्,व्यूढम्  दुर्योधन:तदा।
आचार्यम्, उपसङ्गम्य ,राजा ,वचनम्, अब्रवीत्।।
*पदपरिचय:*-
दृष्ट्वा     - अव्ययम्
तु    - अव्ययम्
पाण्डवानीकम्    - अ.नपु. द्वि.एक.
व्यूढम् -   अ.नपु. द्वि.एक.
दुर्योधन:  - अ. पु. प्र.एक.
तदा -       अव्ययम्
आचार्यम् -  अ.पु. द्वि.एक.
उपसङ्गम्य - अव्ययम्
राजा - राजन् - नका.पु.प्र.एक.
वचनम् - अ.नपु. द्वि.एक.
अब्रवीत् - ब्रूञ् - पर.कर्तरि लङ् प्रपु.एक.
*पदार्थ:*
तदा तु = तदानीं तु, व्यूढम् =व्यूहत्वेन स्थापितम्, पाण्डवानीकम् =पाण्डवसैन्यम्, दृष्ट्वा = अवलोक्य,  राजा = नृप: ,दुर्योधन: =दुर्योधन: ,आचार्यम् = गुरुं द्रोणम्, उपसङ्गम्य = उपसृत्य, वचनम् = वाक्यम्, अब्रवीत् = अवदत् ।
*अन्वय:*-
तदा तु व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत् ।
*आकाङ्क्षा*-
अब्रवीत्
क: अब्रवीत्? -  *दुर्योधन: अब्रवीत्* ।
कीदृश: दुर्योधन: अब्रवीत् - *राजा दुर्योधन: अब्रवीत्* ।
राजा दुर्योधन:किम् अब्रवीत्? -  *राजा दुर्योधन: वचनम् अब्रवीत्* ।
राजा दुर्योधन:किं कृत्वा वचनम् अब्रवीत्? -  *राजा दुर्योधन:उपसङ्गम्य वचनम् अब्रवीत्* ।
राजा दुर्योधन: कम् उपसङ्गम्य वचनम् अब्रवीत्? -   *राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
पुनश्च किं कृत्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?
*दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
किं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?
*पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
कीदृशं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?
*व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
कदा व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्?
*तदा तु व्यूढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधन: आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्* ।
*तात्पर्यम्*-
तदा व्यूहरूपेण स्थापितं पाण्डवानां सैन्यं दृष्ट्वा दुर्योधन: गुरो: द्रोणाचार्यस्य समीपं गत्वा इदं वचनम् अवदत् ।
*व्याकरणम्*-
*सन्धि:*--
पाण्डवानीकं व्यूढम् = पाण्डवानीकम् + व्यूढम् (अनुस्वार)
व्यूढं दुर्योधनस्तदा = व्यूढम् + दुर्योधनस्तदा (अनुस्वार)
                             दुर्योधन: + तदा {विसर्ग, (सकार: )}
*समास:*-
पाण्डवानीकम् - पाण्डवानाम् अनीकम्, तत् - षष्ठीतत्पुरुष:
*कृदन्त:*-
दृष्ट्वा - दृशिर् + क्त्वा
व्यूढम् - वि + वह् + क्त (कर्मणि) आकारविशेषवत्त्वेन विभक्तम् इत्यर्थ: ।
उपसङ्गम्य - उप + सम् + गम्लृ + ल्यप् ।
आचार्य:- आ + चर् + ण्यत् । आचारणीय: (सेवनीय: )आचार्य: ।
वचनम् - वच् + ल्युट् (करणे) उच्यते अनेन इति वचनम् ।
*हिन्दी भावार्थ*-

 *इस श्लोक से आगे संजय ने कुरुक्षेत्र में जो कुछ देखा और सुना उसका वर्णन है। अपनी सेना की अपेक्षा पाण्डवों की सेना संख्या में अत्यन्त न्यून होने पर भी जब दुर्योधन ने उसे देखा तब उस अत्याचारी का आत्मविश्वास कुछ टूटने लगा। जैसे कोई छोटा बालक भयभीत होकर अपने मातापिता के पास दौड़ता है ठीक उसी प्रकार विचलित दुर्योधन अपने गुरु द्रोणाचार्य के पास पहुँचता है। कोई कर्म करते हुये यदि हमारा उद्देश्य पाप और अन्याय से पूर्ण होता है तो अनेक साधनों से सुसम्पन्न होते हुए भी हमारे मन में निश्चय ही चिन्ता अशान्ति और विक्षेप उत्पन्न होते हैं। सभी अत्याचारी और तानाशाही प्रवृत्ति के लोगों की यही मनस्थिति होती है।*
गीताध्ययन
धृतराष्ट्र उवाच—
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।
*पदच्छेद:*— धृतराष्ट्र उवाच-धर्मक्षेत्रे, कुरुक्षेत्रे,समवेता: युयुत्सवः।
मामकाः, पाण्डवा: ,च,एव, किम्, अकुर्वत सञ्जय ।।
*पदपरिचय:-* धर्मक्षेत्रे-अ.नपु.स.एक.
   कुरुक्षेत्रे - अ.नपु.स.एक.
  समवेता: -अ.पु.प्र. बहु.
   युयुत्सवः- उका.पु.प्र.बहु.
   मामकाः - अ.पु.प्र.बहु.
    पाण्डवा:-अ.पु.प्र.बहु.
     च- अव्ययम्
     एव - अव्ययम्
      किम् -म.सर्व.नपु.द्वि.एक.
      अकुर्वत-कृ-आत्म.कर्तरि लङ् प्रपु. बहु.
      सञ्जय- अ.पु.सम्बो.एक.
*पदार्थ:*— सञ्जय =हे सञ्जय! धर्मक्षेत्रे =धर्मप्रधानक्षेत्रे,कुरुक्षेत्रे =कुरुक्षेत्राख्ये प्रदेशे, समवेता: =संयुक्ता:,
युयुत्सव: =योद्धुम् इच्छव: , मामका: = मदीया: ,पाण्डवा: च= पाण्डुपुत्रा: च, किम् अकुर्वत = किं कृतवन्त: ।
*अन्वय:* - सञ्जय! धर्मक्षेत्रे कुरुक्षेत्रे समवेता: युयुत्सव: मामका: पाण्डवा: च किम् अकुर्वत?
*आकाङ्क्षा*—
अकुर्वत ।
के अकुर्वत?    - मामका: अकुर्वत ।
मामका: पुनश्च के अकुर्वत?  - मामका: पाण्डवा: च अकुर्वत ।
कथंभूता:  मामका: पाण्डवा: च अकुर्वत? - समवेता:  मामका: पाण्डवा: च अकुर्वत ।
समवेता: पुनश्च कीदृशा:  मामका: पाण्डवा: च अकुर्वत? -समवेता युयुत्सव:  मामका: पाण्डवा: च अकुर्वत।
कुत्र समवेता युयुत्सव:  मामका: पाण्डवा: च अकुर्वत? - कुरुक्षेत्रे  समवेता युयुत्सव:  मामका: पाण्डवा: च अकुर्वत।
कीदृशे कुरुक्षेत्रे समवेता युयुत्सव:  मामका: पाण्डवा: च अकुर्वत?- धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव:  मामका: पाण्डवा: च अकुर्वत।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता: युयुत्सव: मामका: पाण्डवा: च किम् अकुर्वत?
अस्मिन् श्लोके सम्बोधनपदं किम्?  - सञ्जय ।

*तात्पर्यम्* - हे सञ्जय । मत्पुत्रा: पाण्डुपुत्राश्च युद्घं कर्तुम् उत्सुका: सन्त: धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वन्? इति धृतराष्ट्र: सञ्जयम् अपृच्छत् ।
*व्याकरणम्* ——
(क) सन्धि: - 
समवेता युयुत्सव: — समवेता:+युयुत्सव: - विसर्गसन्धि: (लोप:)
पाण्डवाश्चैव— पाण्डवा: + च, पाण्डवाश्च+ एव - विसर्गसन्धि: (सकार: ),श्चुत्वसन्धि: ,वृद्धिसन्धि: ।
(ख)समास:
धर्मक्षेत्रे -धर्मस्य क्षेत्रम् धर्मक्षेत्रम्, तस्मिन् -षष्ठीतत्पुरुष:
कुरुक्षेत्रे - कुरुणां क्षेत्रम् कुरुक्षेत्रम्, तस्मिन् - षष्ठीतत्पुरुष: 
(ग) कृदन्त:
समवेता: - सम् + अव् + इण् + क्त (कर्तरि)  
युयुत्सव: - युध् + सन् (इच्छार्थे)+उ (कर्तरि)
(घ) तद्धितान्त:
मामका: - अस्मद् (ममकादेश: )+अण् । मम इमे इति मामका: ।
पाण्डवा: - पाण्डु + अण् (अपत्यार्थे) पाण्डो: अपत्यानि पुमांस: इति पाण्डवा: ।