गीताध्ययन
धृतराष्ट्र उवाच—
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।
*पदच्छेद:*— धृतराष्ट्र उवाच-धर्मक्षेत्रे, कुरुक्षेत्रे,समवेता: युयुत्सवः।
मामकाः, पाण्डवा: ,च,एव, किम्, अकुर्वत सञ्जय ।।
*पदपरिचय:-* धर्मक्षेत्रे-अ.नपु.स.एक.
कुरुक्षेत्रे - अ.नपु.स.एक.
समवेता: -अ.पु.प्र. बहु.
युयुत्सवः- उका.पु.प्र.बहु.
मामकाः - अ.पु.प्र.बहु.
पाण्डवा:-अ.पु.प्र.बहु.
च- अव्ययम्
एव - अव्ययम्
किम् -म.सर्व.नपु.द्वि.एक.
अकुर्वत-कृ-आत्म.कर्तरि लङ् प्रपु. बहु.
सञ्जय- अ.पु.सम्बो.एक.
*पदार्थ:*— सञ्जय =हे सञ्जय! धर्मक्षेत्रे =धर्मप्रधानक्षेत्रे,कुरुक्षेत्रे =कुरुक्षेत्राख्ये प्रदेशे, समवेता: =संयुक्ता:,
युयुत्सव: =योद्धुम् इच्छव: , मामका: = मदीया: ,पाण्डवा: च= पाण्डुपुत्रा: च, किम् अकुर्वत = किं कृतवन्त: ।
*अन्वय:* - सञ्जय! धर्मक्षेत्रे कुरुक्षेत्रे समवेता: युयुत्सव: मामका: पाण्डवा: च किम् अकुर्वत?
*आकाङ्क्षा*—
अकुर्वत ।
के अकुर्वत? - मामका: अकुर्वत ।
मामका: पुनश्च के अकुर्वत? - मामका: पाण्डवा: च अकुर्वत ।
कथंभूता: मामका: पाण्डवा: च अकुर्वत? - समवेता: मामका: पाण्डवा: च अकुर्वत ।
समवेता: पुनश्च कीदृशा: मामका: पाण्डवा: च अकुर्वत? -समवेता युयुत्सव: मामका: पाण्डवा: च अकुर्वत।
कुत्र समवेता युयुत्सव: मामका: पाण्डवा: च अकुर्वत? - कुरुक्षेत्रे समवेता युयुत्सव: मामका: पाण्डवा: च अकुर्वत।
कीदृशे कुरुक्षेत्रे समवेता युयुत्सव: मामका: पाण्डवा: च अकुर्वत?- धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: मामका: पाण्डवा: च अकुर्वत।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता: युयुत्सव: मामका: पाण्डवा: च किम् अकुर्वत?
अस्मिन् श्लोके सम्बोधनपदं किम्? - सञ्जय ।
*तात्पर्यम्* - हे सञ्जय । मत्पुत्रा: पाण्डुपुत्राश्च युद्घं कर्तुम् उत्सुका: सन्त: धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वन्? इति धृतराष्ट्र: सञ्जयम् अपृच्छत् ।
*व्याकरणम्* ——
(क) सन्धि: -
समवेता युयुत्सव: — समवेता:+युयुत्सव: - विसर्गसन्धि: (लोप:)
पाण्डवाश्चैव— पाण्डवा: + च, पाण्डवाश्च+ एव - विसर्गसन्धि: (सकार: ),श्चुत्वसन्धि: ,वृद्धिसन्धि: ।
(ख)समास:
धर्मक्षेत्रे -धर्मस्य क्षेत्रम् धर्मक्षेत्रम्, तस्मिन् -षष्ठीतत्पुरुष:
कुरुक्षेत्रे - कुरुणां क्षेत्रम् कुरुक्षेत्रम्, तस्मिन् - षष्ठीतत्पुरुष:
(ग) कृदन्त:
समवेता: - सम् + अव् + इण् + क्त (कर्तरि)
युयुत्सव: - युध् + सन् (इच्छार्थे)+उ (कर्तरि)
(घ) तद्धितान्त:
मामका: - अस्मद् (ममकादेश: )+अण् । मम इमे इति मामका: ।
पाण्डवा: - पाण्डु + अण् (अपत्यार्थे) पाण्डो: अपत्यानि पुमांस: इति पाण्डवा: ।

यह एक पुनीत कार्य है
जवाब देंहटाएंधन्यवाद भैया ,आप सबके प्रोत्साहन से ही यह सब कार्य आगे बढ़ेेगा ।
हटाएंवाह। मैं ऐसे ही तरीके से गीता पढ़ना चाहता था।
जवाब देंहटाएंसंस्कृत सीख रहा हूँ तो यह शैली मेरे अध्ययन में बहुत मददगार होगी। आपका कोटिशः धन्यवाद।
आशा है कि आप इसे पूर्णता तक पहुंचाएंगे।
*मूल श्लोकः*
जवाब देंहटाएंपश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता।।1.3।।
*पदच्छेद:--*
पश्य, एताम्, पाण्डुपुत्राणाम्, आचार्य ,महतीम् ,चमूम्।
व्यूढां ,द्रुपदपुत्रेण, तव ,शिष्येण, धीमता।।1.3।।
*पदपरिचय:--*
पश्य-------दृशिर् -पर.कर्तरि- लोट् मपु. एक.
एताम्-------एतद्-द.सर्व.स्त्री. द्वि.एक.
पाण्डुपुत्राणाम्-------अ.पु.ष.बहु.
आचार्य -------अ.पु.सम्बो. एक.
महतीम्-------ईका. स्त्री. द्वि.एक.
चमूम्-------ऊका. स्त्री. द्वि.एक.
व्यूढां -------आका.स्त्री. द्वि.एक.
द्रुपदपुत्रेण-------अ.पु.तृ. एक.
तव-------युष्मद्-द.सर्व.ष.एक.
शिष्येण-------अ.पु.तृ. एक.
धीमता-------धीमत् -त.पु.तृ. एक.
*पदार्थ:------*
आचार्य = भो द्रोणाचार्य! तव =भवत: ,धीमता = बुद्धिमता, शिष्येण= छात्रेण, द्रुपदपुत्रेण = धृष्टद्युम्नेन, व्यूढाम् = व्यूहरूपेण स्थापितम्, पाण्डुपुत्राणाम् = पाण्डवानाम्, एताम् = एनाम्, महतीम् = बृहतीम्, चमूम् = सेनाम्, पश्य = वीक्षस्व ।
*अन्वय:-------*
आचार्य! तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।
*आकाङ्क्षा-----*
_पश्य_
कां पश्य? *चमूं पश्य ।*
कां चमूं पश्य? *एतां चमूं पश्य ।*
कीदृशीम् एतां चमूं पश्य? *महतीम् एतां चमूं पश्य ।*
केषां महतीम् एतां चमूं पश्य? *पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।*
कीदृशीं पाण्डुपुत्राणां महतीम् एतां चमूं पश्य? *व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।*
केन व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य? *द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।*
कीदृशेन द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य?
*शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य।*
पुनश्च कीदृशेन द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य?
*धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य।*
कस्य धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य?
*तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।*
अस्मिन् श्लोके सम्बोधनपदं किम्? *आचार्य*
*तात्पर्यम्----------*
भो: आचार्य! चतुरेण तव शिष्येण धृष्टद्युम्नेन पाण्डवानां महत् सैन्यमिदं व्यूहरूपेण स्थापितम् अस्ति । इदं पश्य ।
*व्याकरणम्-------*
_सन्धि:_
पश्यैताम् - पश्य + एताम् (वृद्धिसन्धि: )
महतीं चमूम् - महतीम् + चमूम् (अनुस्वारसन्धि: )
_समास:_
पाण्डुपुत्राणाम् - पाण्डो: पुत्रा: ,तेषाम् - षष्ठीतत्पुरुष:
द्रुपदपुत्रेण - द्रुपदस्य पुत्र: ,तेन षष्ठीतत्पुरुष:
_कृदन्त:_
व्यूढाम् - वि+वह्+क्त(कर्मणि)
आचार्य: - आ+चर्+ण्यत्।आचारणीय: (सेवनीय: )आचार्य:
_तद्धितान्त:_
धीमता- धी+मतुप्,तेन । धी: अस्य अस्मिन् वा अस्ति इति धीमान् ।
एतत् गीता विश्लेषण महद् अद्भुतम्.
जवाब देंहटाएंबहुत पुनीत कार्य है। शोध कार्य हेतु बहुत उपयोगी है।
जवाब देंहटाएंशोभनं
जवाब देंहटाएंबहु शोभनम्
जवाब देंहटाएंअत्यन्तं दिव्यमद्भुतम्
जवाब देंहटाएं